॥ नवग्रहस्तोत्रम् ॥ (Navgrahstotram)
अथ नवग्रहस्तोत्रम्। श्री गणेशाय नमः। जपाकुसुमसङ्काशं काश्यपेयं महदद्युतिम्।तमोरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम्॥१॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्।नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥ धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥ प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥ देवानाञ्च…